________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
| रिकुमारयोोरः संग्रामो बभूव. सर्वेऽपि नागरजनास्तत्रायाताः. सामंतभृत्यसहितो महासेनो रा- सटोक ॥ ६॥ जापि तत्रायातः. भणितं च नरेंद्रेण कुमार ! अनेन समं संग्राम मा कुरु ? कृतांत इव च रुष्टोऽसो
तव विनाशं करिष्यतीति. महापद्म उवाच, राजन् ! विश्वस्तो भव ? पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकरिणं स्वकलया वशीकृतवान्. आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नोतवान्. साधुकारेण तं लोकः पूजितवान्, यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति. अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति ? ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं क-| न्याशतं दत्तं. तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यांति. तथापि स तां मदनावली हृदयान्न विस्मारयति. अन्यदा रजन्यां शय्यातोऽसौ वेगवत्या विद्याधर्या
पहृतः, निद्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं त्वमेवं मामपहरसि ? है। तया भणितं कुमार ! शृणु ? वैताढये सूरोदयनाम नगरमस्ति, तत्रंद्रधनुर्नाम विद्याधराधिपतिर-
Insaan स्ति, तस्य भार्या श्रीकांता वर्तते, तस्याः पुत्री जयचंद्रानाम्नी वर्तते. सा च पुरुषद्वेषिणी नेच्छति
+Ex-SARHAADHAR1%
A
For Private And Personal Use Only