________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटोक
उत्तरा
येन च दुर्ग भक्त्वा सिंहबलो बद्ध आनीतश्च महापद्मांतिके. महापद्मनोक्तं नमुचे! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं सांप्रतं वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि. एवं यौवराज्यं पालयतो महापद्मस्य कियान् कालो गतः. अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतगे नाम राजा, यथैष ब्रह्मरथः प्रथम नगरमध्ये परिभ्रमतु. जिनरथश्च पश्चात्परिभ्रमतु. इदं वचः श्रुत्वा जयादेव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रभिष्यति तदाऽपरजन्मनि ममाहारः, ततो राज्ञा द्वावपि
रथो निरुद्धौ. महापद्मः स्वजनन्याः परमामधृतिं दृष्ट्वा नगरान्निर्गतः केनापि न ज्ञातः. परदेशे गहूँच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः. तापसैर्दत्तसन्मानस्तत्र तिष्टति.
इतश्च चंपायां नगर्यां जनमेजयो राजा परिवसति, स च कालनरेंद्रेण प्रतिरुद्धः, ततो महान् संग्रामो बभूव. जनमेजयो नष्टः, तस्यांतःपुरमपीतस्ततो नष्टं. जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुत्र्या समं नष्टा, आगता तं तापसाश्रम, समाश्वासिता कुलपतिना तत्रैव स्थिता.
CONO-COGNCHACHAGRICHACANCS
For Private And Personal Use Only