________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
ला
सटीकं
॥ ६३७॥
माना बभूवुः. सर्वायुः चतुरशीतिसहस्रवर्षाणि भुक्त्वा सम्मेतशैलोशखरे मासिकानशनेन भगवानिर्वृत्तः. देवैर्निर्वाणोत्सवो भृशं कृतः, इत्यरचक्रवर्तिदृष्टांतः. ७. | ॥ मूलम् ॥-चइत्ता भारहं वासं । चक्कवट्टी महडिओ ॥ चइत्ता उत्तमे भोए । महापउमो
तवं चरे ॥ ४१ ॥ व्याख्या-हे मुने! महापद्मोऽप्यष्टमश्चक्री महर्द्धिकस्तपोऽचरत्. किं कृत्वा ? भारतं ४ वासं त्यक्त्वा, पुनरुत्तमान प्रधानान् भोगांस्त्यक्त्वा. ॥ ४१ ॥ अत्र महापद्मचक्रवर्तिदृष्टांतः-इहैव जं. |
बद्रोपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरं, तत्र श्रीऋषभवंशप्रसूतः पद्मोत्तरो नाम राजा. तस्य ज्वालानाममहादेवी. तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः. द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा. द्वावपि वृद्धिं गतो, महापद्मो युवराजः कृतः. इतश्चोजयिन्यां नगर्या श्रीधर्मनामराजा, तस्य नमुचिनामा मंत्री. अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुब्रतो नाम सूरिः समवसृतः. तद्वंदनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः, पृष्टाश्च सेवकाः, अकालयात्रया क्वायं लोको गच्छति ? ततो नमुचिमंत्रिणा भणितं, देव अत्रोद्याने श्रमणाः समाग
॥६३७॥
For Private And Personal Use Only