________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥ ६३६॥
OCCA-C5%
दिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रनिर्मितः. ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सवं विशेषाच्चकार.
सटीक अस्मिन् गर्भगते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः. ततः पित्रास्याऽर इति नाम कृतं. देवपरिवृतः स वयसा गुणैश्च वर्धतेस्म. एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तं. एकविंशतिवर्षसहस्राणि यावद्राज्यं भुक्तवतस्तस्य शस्त्रकोशे चक्ररत्नं समुत्पन्नं. ततो भरतं प्रसाध्यैकविंशति| सहस्रवर्षाणि यावच्चक्रवर्तित्वं बुभुजे. ततः स्वामी स्वयंबुद्धोऽपि लोकांतिकदेवबोधितो वार्षिकं दानं दत्वा चतुःषष्टिसुरेन्द्रसेवितो वैजयंत्याख्यां शिबिकामारूढः, सहस्राम्रवने सहस्रराजभिः समं प्रत्रजितः, ततश्चतुर्ज्ञान्यसौ त्रीणि वर्षाणि छाद्मस्थ्ये विहृत्य पुनः सहस्राम्रवने प्राप्तः. तत्र शुक्लध्यानेन ध्वस्तपापकर्मारः केवलज्ञानं प्राप. ततः सुरैः समवसरणे कृते स्वामी योजनगामिना शब्देन देशनां चकार. तद्देशनां श्रुत्वा केऽपि सुश्रावका जाताः, केऽपि च प्रवजिताः. तदानीं कुंभभूपः प्रबज्य प्रथमो गणधरो जातः. अरनाथस्य षष्टिसहस्राः साधवो जाताः. साध्न्यः स्वामिनस्तावत्प्रमाणा
F६३६॥ एव जाताः. श्रावकाश्चतुरशीतिसहस्राधिकलक्षमाना बभूवुः श्राविकाश्चतुरशीतिसहस्राधिकलक्षत्रय
ARC
For Private And Personal Use Only