________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
95
॥ मूलम् ॥-सागरंतं चइत्ताणं । भरहं नरवरीसरो॥ अरो य अरयं पत्तो। पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-च पुनररोऽरनामा नरवरेश्वरः सप्तमश्चक्री सागरांतं समुद्रांतं भरतक्षेत्रं षखंडराज्यं त्यक्त्वाऽरजस्त्वं प्राप्तः सन्ननुत्तरां गतिं सिद्धिगति प्राप्तो मोक्षं गत इत्यर्थः. चक्री भूत्वा तीर्थकरपदं भुक्त्वा मोक्षं गत इत्यर्थः ॥ ४० ॥ अत्र अरनाथदृष्टांतः
अरनाथवृत्तांतस्तूत्तराध्ययनवृत्तिद्वयेऽपि नास्ति, तथापि ग्रंथांतराल्लिख्यते-प्राग्विदेहविभूषणे मंगलावतीविजये रत्नसंचया पुर्यस्ति. तत्र महीपालनामा भूपालोऽस्ति. प्राज्यं राज्यं भुंक्ते. अन्यदा गुरुमुखाद्धम श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षां ललो. गुर्वतिके एकादशांगान्यधीत्य गीतार्थों बभूव. बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरहन्नामकर्म बबंध. ततो मृत्वा सर्वार्थसिद्धविमाने देवो बभूव. ततश्च्युत्वेह भरतक्षेत्रे हस्तिनागपुरे सुदर्शननामा नृपो बभूव, तस्य गज्ञी देवीनाम्नी बभूव, तस्याः कुक्षौ सोऽवततार. तदानीं रेवतीनक्षत्रं बभूव, तया च. तुर्दश स्वप्ना दृष्टाः. ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव. जन्मोत्सवस्तदा षट्रपंचाश
+
+5+
+
॥६३
+
For Private And Personal Use Only