________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥६३४॥
षभसमानः प्रधान इत्यर्थः. पुनः कीदृशः? विख्यातकीर्तिः, अत्र भगवानिति विशेषणेनाष्टमहाप्रातिहार्यायैश्वर्ययुक्तः सप्तदशस्तीर्थंकरः पष्टश्चक्री कुंथुर्तेयः ॥३९ ॥ अत्र कुंथुनाथदृष्टांतः-हस्तिनागपुरे सूरराज्ञः श्रीदेवी भार्या. तस्याः कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः. जन्ममहोत्सवानंतरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो (पृथ्वोस्थः) दृष्टः. गर्भस्थे च भगवति पित्रा शत्रवः कुंथुवद् दृष्ट्वा इति कुंथुनाम कृतं. पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः. काले च भगवंतं राज्ये व्यवस्थाप्य सूरराजा स्वयं दीक्षां जग्राह. भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान् बभुजे. तीर्थप्रवर्तनसमये च निःक्रम्य षोडश वर्षाणि चोगविहारेण विहृत्य केवलज्ञानभाक् जातः. देवाश्च समवसरणमकार्षुः. प्रत्रजिताः घना लोकाः. केवलिपर्यायेण धनं कालं विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत्. तस्य भ| गवतः कुमारत्वे त्रयोविंशतिवर्षसहस्राणि, मांडलिकत्वे च त्रयोविंशतिवर्षसहस्राणि, चक्रित्वे त्रयोविंशतिवर्षसहस्राणि, श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्धानि च सप्तशतानि वर्षाण्यभवन्. IPen सर्वायुनिवतिवर्षसहस्राण सार्धसप्तशतानि चास्य वभूव. इति श्रीकुंथुनाथदृष्टांतः. ॥ ६॥
For Private And Personal Use Only