________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥६३३॥
मेण राज्ये स्थापितः, पित्रा चारित्रं गृहीतं, शांतेश्चक्रवर्तिपदवी समायाता, उत्पन्नानि चतुर्दश र- सटीक त्नानि, साधितं भरतं, अखंडं षट्खंडराज्यं परिपाल्योचितावसरे स्वयं संबुद्धोऽपि लोकांतिकामरैः प्रतिबोधितः, सांवत्सरं दानं दत्वा ज्येष्टकृष्णचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रांतः. चतुर्ज्ञानसमन्वितस्योद्यतविहारं कुर्वतः पौषशुद्धनवम्यां केवलज्ञानं समुत्पन्नं. देवैः समवसरणं कृतं, भगवता धर्मदेशना प्रारब्धा, प्रवाजिता गणधराः, प्रतिबोधिता बहवः प्राणिनः. क्रमेण विहृत्य भरतक्षेत्रे बोधिबीजमुप्त्वा क्षोणसर्वकाशो ज्येष्टकृष्णत्रयोदश्यां मोक्षं गत इति. अस्य भगवतः कुमारत्वे पंचविंशतिवर्षसहस्राणि, मांडलिकत्वेऽपि पंचविंशतिवर्षसहस्राणि, चक्रित्वे पंचविंशतिवर्षसहस्राणि, श्रामण्ये च पंचविंशतिवर्षसहस्राणि, सर्वायुश्च वर्षलक्षमेकं जातमिति. इति शांतिनाथदृष्टांतः ॥५॥
॥ मूलम् ॥-इक्खागरायवसहो। कुंथुनामनरेसरो ॥ विक्खायकित्ती भयवं । पत्तो गइमणुत्तरं ॥ ३९॥ व्याख्या-पुनः कुंथुनामा नरेश्वरः षष्टश्चको अनुत्तरां सर्वोत्कृष्टां गतिं प्राप्तः. कोशः
*॥३३॥ कुंथः? भगवानैश्वर्यज्ञानवान्. पुनः कीदृशः कुंथुः? ईक्ष्वाकुराजवृषभः, ईक्ष्वाकुवंशीयभूपेषु वृषभो वृ
THEHODOIDAI.14
For Private And Personal Use Only