________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyanmandie
सटीक
॥ ६३०॥
| जा, तस्य भार्या रत्नमाला, तयोः पुत्रो वज्रायुधाभिधानो जातः. इतश्च श्रीविजयजीवो देवायुरनुपाल्य तस्यैव पुत्रत्वेनोत्पन्नः. सहस्रायुध इति तस्य नाम प्रतिष्टितं. अन्यदा पौषधशालायां स्थितो वज्रायुधो देवेंद्रेण प्रशंसितः, यथायं वज्रायुधो धर्माच्चालयितुं न शक्यते देवैर्दानवैश्च. तत एको देवस्तद्वाण्यामश्रदधानः पारापतरूपं विकुर्व्य भयभ्रांतो वज्रायुधमाश्रितः, हे वज्रायुध ! तव शरणं ममास्त्विति मनुष्यभाषयोवाच. वज्रायुधेन तस्य शरणं दत्तं, स्थितस्तदंतिके पारापतः, तदनंतरं तत्रैवागतो लावकः, तेनापि भणितं, यथा महासत्व ! एष मया क्षुधाक्लांतेन प्राप्तः, ततो मुंचैनं, अन्यथा नास्ति मम जीवितमिति. ततस्तद्वचनमाकर्ण्य वज्रायुधेन भणितं, न युक्तं शरणागतसमर्पणं, तवापि न युक्तमेतत्, यतः-हंतूण परप्पाणे । अप्पाणं जो करेइ सप्पाणं ॥ अप्पाणं दिवसाणं । कए स नासेइ अप्पाणं ॥१॥ यथा जीवितं तव प्रियं, सर्वेषामपि जीवानां तथैवास्ति, एनं भयभ्रांतं दीनं व्यापादायतुं तव न युक्तं, धर्म कुरु ? पापं मुंच? लावकः प्रतिभणति, राजन्नहं बुभुक्षितः, न मे मनसि धर्मस्तिष्टति, ततः पुनरपि भणितं राज्ञा, भो महासत्व! यदि बुभुक्षितस्त्वं ततोऽन्यत्तव
N5HESitrCADHDHD
For Private And Personal Use Only