________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा-पाच गत्वा स्वस्वपुत्रावभिषिच्य जगन्नंदनमुनिसमीपे संयममादाय पादपोपगमनमनशनं विहितं. वि।६२९॥
धिना कालं कृत्वा प्राणते कल्पे विंशतिसागरोपमायुदेवत्वेनोत्पन्नौ. ततश्च्युताविहैव जंबूद्वीपे पूर्वविदेहे रमणीविजये शीताया महानद्या दक्षिणकुले सुभगायां नगर्यां प्रेमसागरस्य राज्ञो वसुंधराऽनंगसुंदर्योर्महागर्ने क्रमेण कुमारत्वेनोत्पन्नौ. अमिततेजोजीवोऽपराजितनामाश्रीविजयजीवोऽनंतवीर्यनामा जातः. तत्रापि प्रतिशत्रुदमितारिं व्यापाद्य क्रमेण बलदेवत्वं वासुदेवत्वमापन्नौ. तयोश्च पिता प्रव्रज्याविधानेन मृत्वाऽसुरकुमारेंद्रत्वेनोत्पन्नः. अनंतवीर्यस्तु कालं कृत्वा द्विचत्वारिंशत्सहस्रवर्षायुर्नारकः प्रथमपृथिव्यामुत्पन्नः, चमरस्तु पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार. सोऽपि संविग्नः सम्यक् सहते. अपराजितो बलदेवो भ्रातृविहरदुःखितो निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्क्रांतः. शुद्धां प्रवज्यां परिपाल्याच्युतेंद्रत्वेनोत्पन्नः. अनंतवीर्यस्तु नरकादुध्धृत्य वैताढये विद्याधरत्वेनोत्पन्नः. अच्युतेंद्रेण प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पेंद्रसामानिकत्वेनोत्पन्नः. अपराजितोऽच्युतेंद्रस्ततश्च्युत्वा इहैव जंबूद्वीपे शीतामहानदीदक्षिणकुले मंगलावतीविजये रत्नसंचयापुर्यां क्षेमंकरो रा
SHAREWS
PLANCHARACHAR
For Private And Personal Use Only