________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥६२८॥
ब-A
-
उक्तं, तावत्त्वं मम गृहे तिष्ट? यावत्कपिलं बोधयामीति. अन्यदा स राजा खपुत्रो गणिकानिमित्तं युध्यमानौ दृष्ट्वा वैराग्येण विषं भक्षितवान्. ततः सिंहनंदिताऽभिनंदितानाम्न्यो श्रीषेणनृपस्य भार्ये कपिलस्य भार्या सत्यभामा च विषप्रयोगेण कालं गताः. चत्वारोऽप्यमी जीवा देवकुरुषु युगलत्वेनोत्पन्नाः, ततः सौधमें कल्पे गताः. ततश्च्युत्वा श्रीषणजीवोऽमिततेजा जातः, अभिनंदिताजीवः श्रीविजयो जातः, सत्यभामाजीवः सुतारा जाता, स कपिलजीवस्तिर्यग्भवेषु चिरकालं भ्रांत्वा क्वचित्तथाविधमनुष्टानं कृत्वाऽशनिघोषः समुत्पन्नः. सुतारां च सत्यभामाब्राह्मणीजीवं दृष्ट्वा पूर्वस्नेहेनापहृत्य गतः. पुनरप्यमिततेजसा पृष्टं, भगवन्नहं किं भव्योऽभव्यो वा? अचलकेवलिना कथितं त्वं भव्य इतश्च नवमे भवे तीर्थकरो भविष्यसि, एषोऽपि श्रीविजयस्तव गणधरो भविष्यति. तत एतदाकामिततेजःश्रीविजयनृपावचलकेवलिनं वंदित्वा गतौ स्वस्थानं.
अन्यदामिततेजःश्रीविजयाभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वोक्तं, यथा षड्विंशतिदिनानि भवतोईयोरप्यायुः. ततस्ताभ्यां मेरौ गत्वा कृतोऽष्टाह्निकामहोत्सवः, स्वस्वराज्ये
.O RG
॥२८॥
For Private And Personal Use Only