________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा-
सटोक
॥६२७॥
उपाध्यायेन पृष्टः कस्त्वं ? कुत आगतः? कपिलेनोक्तमचलग्रामे धरणीजटविप्रसुतः कपिलनामाहं विद्यार्थी अत्रायातस्तवसमीपमिति. उपाध्यायेन सबहुमानं स्वगृहे रक्षितः. विद्यामध्याप्य स्वपुत्री तस्य दत्ता सत्यभामानाम्नी. अन्यदा वर्षाकाले स कपिलो रात्री स्ववस्त्राणि कक्षायां कृत्वा वर्षत्येव मेघे स्वगृहद्वारे समायातः. सत्यभामा चायं स्तिमितवस्त्रो भविष्यतीति चिंतयंत्यपराणि वस्त्राणि गृहीत्वा गृहद्वारे सन्मुखमायाता. कपिलेन तस्या उक्तमस्ति मम प्रभावो येन वस्त्राणि न स्तिम्यंति. तावता विद्युत्प्रकाशे तया स नग्नो दृष्टः. ज्ञातं चायं नग्न एव समायातः, वस्त्राणि कक्षायां च निहितवानित्यवश्यमयं हीनकुल इति सा कपिले मंदस्नेहा जाता. अन्यदा धरणीजटो विप्रस्तत्र कपिलसमीपे समायातः. सत्यभामा च पितृपुत्रयोर्विरुद्धमाचारं दृष्ट्वा परमार्थ पृष्टो धरणोजटविप्रः. तेन यथार्थं कथितं. तत् श्रुत्वोद्विग्ना सत्यभामा कामभोगेभ्यो निर्विण्णा, प्रवज्याग्रहणनिमित्तं पृष्टः कपिलः. न मुंचत्येष कपिलः. तदेयं गता तान्नवासिश्रीपेणराज्ञः समीपं, बभाण च भो राजन् ! मां कपिलसमीपान्मोचय? येनाहं दीक्षां गृह्णामि. राज्ञा कपिलस्योक्तं, कपिलोन मन्यते. राज्ञा पुनस्तस्या
+OCACHAAR
॥६२७॥
For Private And Personal Use Only