________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा- ॥६२६॥
तो विद्याधरावमिततेजःसमीपं गतो.
ततोऽमिततेजःप्रेषितविद्याधररचितविमानैः स श्रीविजयोऽप्यमिततेजःसमीपं गतः अमिततेजःश्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं वेष्टितं, अशनिघोषांतिके दूतः प्रेषितः, तयोरागमनं श्रुत्वाशनिघोषो नष्टः, उत्पन्नकेवलस्याचलस्य च समीपे गतः. अमिततेजःश्रीविजयावपि तत्पृष्टो तत्रायातो. सर्वेऽपि गतमत्सरा धर्म शृण्वंति, एकेन विद्याधरेण सुतारापि तत्रानीता. लब्धावसरेणाशनिघोषेण भणितं, न मया दुष्टभावेन सुतारापहृता, किं तु विद्या साधयित्वा गच्छता मयेयं दृष्टा, पूवस्नेहेनेमां त्यक्तुं न शक्नोमीति वैतालिन्या विद्यया श्रीविजयं मोहयित्वा सुतारां गृहीत्वा स्वनगरे गतः, नास्याः शीलभंगमकार्ष. तथापि ममात्रार्थे योऽपराधः स क्षंतव्य इत्याकामिततेजसा भणितं, भगवन् ! किं पुनः कारणं? एतस्यास्यां स्नेहोऽभूत्. ततोऽचलकेवली कथयति, मगधदेशेऽचलग्रामे धरणीजटो नाम विप्रः, तस्य कपिलानाम चेटी, तस्याः पुत्रः कपिलो नाम. तेन कर्णश्रवणमात्रेण विद्या शिक्षिता, गतश्च देशांतरे रत्नपुरं नाम नगरं. तत्र कस्यचिदुपाध्यायस्य मठे गतः,
AAAAAAAAAAACAROACK
॥ २६ ॥
For Private And Personal Use Only