SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ६२४ ॥ www.kobatirth.org परिणामो ॥ १ ॥ अपरेण मंत्रिणा भणितं, पोतनाधिपतेर्वधोऽनेन समादिष्टः, न पुनः श्रीविजयराज्ञः. सप्तमदिवसान् यावदपरः कोऽपि पोतनाधिपतिर्विधीयते. सर्वैरप्युक्तमयमुपायः साधुः मयोक्तं मजीवितरक्षाकृते ऽपरजीववधः कथं क्रियते ? सर्वैरुक्तं तर्हि यक्षप्रतिमाया राज्याभिषेकः क्रियते एवं मंत्रयित्वा सर्वैरपि यक्षप्रतिमा पोतनपुरराज्येऽभिषिक्ता. सप्तदिवसान् यावन्मया पौषधागारे गत्वा पौषधा एव कृताः सप्तमदिवसमध्याह्नसमये गगनमार्गेऽकस्मान्मेघः समुत्पन्नः, स्फुरिता विद्युलता, इतस्ततः परिभ्रम्य यक्षप्रतिमा विनाशिता. अष्टमे दिवसे चाहं पौषधशालातो निर्गत्य क्षेमेण स्वभुवने समायातः, तं नैमित्तिकं च कनकरत्नादिभिः पूजितवान् पुनरहं नागरिकैः पोतराज्येऽभिषिक्तः तदिदमस्मिन्नगरे महोत्सवकारणमिति श्रीविजयेनोक्तेऽमिततेजाः प्राह अविसंवादिनिमित्तं, | शोभनो रक्षणोपाय इत्युक्त्वाऽमिततेजो राजा स्वस्थानं गतवान् अन्यदा श्रीविजयराजा सुतारया समं वने रंतुं गतः सुतारया तत्र कनकमृगो दृष्टः, श्रीविजयस्योक्तं स्वामिन्! ममैनं मृगमानीय देहि ? मम क्रोडाथ भविष्यति ततः श्रीविजयराजा तद्ग्रहणार्थं स्वयमेव प्रधावितः, नष्टो मृगः, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं H ६२४ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy