________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥६२३॥
|मित्तमवलोकितं, यथा पोतनाधिपतेरुपरि इतो दिवसात्सप्तमे दिवसे मध्याह्नसमये विद्युत्पतिष्यति. इदं च कर्णकटुकं वचः श्रुत्वा मंत्रिणा भणितं, तदानीं तवोपरि किं पतिष्यति? तेनोक्तं मा कुप्यत? यथा मयोपलब्धं निमित्तं तथा भवतां कथितं, न चात्र मम कोऽपि भावदोषोऽस्ति. ममोपरि तस्मिन दिवसे हिरण्यवृष्टिः पतिष्यति. मया भणितं त्वयैतन्निमित्तं क पठितं? तेन भणितं त्रिपृष्टवासुदेवभ्रातृअचलबलदेवदीक्षासमये पित्रा समं मयापि प्रव्रज्या गृहीता. तत्रानेकशास्त्राध्ययनं कुवता मयाष्टांगनिमित्तमप्यधीतं. ततोऽहं प्राप्तयौवनः पूर्वदत्तकन्याया भ्रातृभिरुत्प्रवाजितः. कर्मपरिणतिवशेन सा मया परिणीता. तेन मया सर्वज्ञप्रणीतनिमित्तानुसारेण प्रलोकितं, यथा सप्तमे दिवसे पोतनाधिपतेरुपरि विद्युत्पातो भविष्यति. एवं तेन नैमित्तिकेनोक्ते एकेन मंत्रिणा भणितं, यथा महाराज! समुद्रमध्ये वाहनांतर्भवद्भिः सप्तदिवसान् यावत् स्थेयं, तत्र विद्युन्न पराभवति. अन्येन मंत्रिणा भणितं दैवयोगोऽन्यथा कर्तुं न तीर्यते. यत उक्तं
धारिजइ इंतो सागरोवि । कल्लोलभिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ-सुहासुहो कम्म
64344%9554
॥६२३॥
For Private And Personal Use Only