SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक CSCAM ॥ ६२२ ॥ क्षं प्राप्तः, कथंभूतः शांतिः? लोके शांतिकरः, शांतिं करोतीति शांतिकरः, इति विशेषणेन तीर्थंकरत्वं प्रतिपादितं. षोडशस्तीर्थकरः शांतिनाथो मोक्षं जगामेत्यर्थः. किं कृत्वा ? भारतं वासं त्यक्त्वा, भरतस्येदं भारतं, भरतक्षेत्रसंबंधिवासमिति राज्यवासं. कीदृशः शांतिः? चक्रवर्ती महर्द्धिकः, इत्यनेन शांतेश्चक्रवर्तित्वं तीर्थकरत्वं च प्रतिपादितं. ॥ ३८ ॥ अत्र शांतिनाथदृष्टांतः-इहैव जंबूद्वीपे | भरतक्षेत्रे वैताढ्यपर्वते रथनूपुरचक्रवालं नाम नगरमस्ति. तत्र राजाऽमिततेजाः परिवसति, तस्य | सुतारानाम्नी भगिनी वर्तते. सा च पोतनाधिपतिना श्रीविजयराज्ञा परिणीता. अन्यदा अमिततेजो | राजा पोतनपुरे श्रीविजयसुतारादर्शनार्थं गतः, प्रेक्षते च प्रमुदितमुच्छ्रितपताकं सर्वमपि पुरं, वि शेषतश्च राजकुलं. ततो विस्मितलोचनोऽमिततेजो राजा गगनतलादुत्तीर्णः, गतश्च राजभुवनं, अभ्युत्थानादिना सत्कृतः श्रीविजयेन, कृतमुचितं करणीयं. उपविष्टः सिंहासनेऽमिततेजो राजा पप्रच्छ नगरोत्सवकारणं. श्रीविजयः प्राह, यथेतोऽष्टमे दिवसे मदंतिके एको नैमित्तिकः समायातः, मदनुज्ञाते सिंहासने चोपविष्टः. पृष्टश्च मया किमागमनप्रयोजनं? ततस्तेन भणितं, महाराज! मया नि CALCONCHAM ६२२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy