________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
ट्राधिस्फेटको. तदानीं सनत्कुमारमुनिना स्वमुखथूत्कृतेन घर्षिता स्वांगुली कनकवर्णा दर्शिता. भ.
णितं चाहं स्वयमेव शरीरव्याधि स्फेटयामि, यदि मे सहनशक्तिन स्यात्तदेति. युवां यदि संसारव्याधिस्फेटनसमर्थों तदा तं स्फेटयेथाः? देवो विस्मितमनस्कौ प्रकटितस्वरूपावेवमूचतुः, भगवंस्त्वमेव संसारव्याधिस्फेटनसमर्थोऽसि. आवाभ्यां तु शक्रवचनमश्रद्दधानाभ्यामिहागत्य त्वं परीक्षितः, यादृशः शक्रेण वर्णितस्तादृश एव त्वमसीत्युक्त्वा प्रणम्य च तौ स्वस्थानं गतौ. भगवान् सनत्कुमारस्तु कुमारत्वे पंचाशद्वर्षसहस्राणि, मांडलिकत्वे पंचाशद्वर्षसहस्राणि, चक्रवर्तित्वे वर्षलक्ष, श्रामण्ये च वर्षलक्षमेकं परिपाल्य सम्मेतशैलशिखरं गतः. तत्र शिलातले आलोचनाविधानपूर्व मासिकेन भक्तन कालं कृत्वा सनत्कुमारकल्पे देवत्वेनोत्पन्नः. ततश्च्युतो महाविदेहे वर्षे सेत्स्यति.
इति सनत्कुमारदृष्टांतः. ४. ॥ ३७॥ हि ॥ मूलम् ॥-चइत्ता भारहं वासं । चक्कवट्टी महडिओ ॥ संती संतिकरे लोए । पत्तो गइ | मणुत्तरं ॥ ३८॥ व्याख्या-पुनः शांतिः शांतिनाथः प्रस्तावात्पंचमश्चक्री अनुत्तरां गतिं प्राप्तो मो
॥६२१॥
For Private And Personal Use Only