________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
सटोक
उत्तरा- दिन्यलोका नव निधयश्च षण्मासान् यावत्तन्मार्गानुलग्नास्तेन संयमिना सिंहावलोकनन्यायेन दृ
ष्ट्यापि न विलोकिताः. षष्टभक्तेन भिक्षानिमित्तं गोचरप्रविष्टस्य प्रथममेवाऽजातकं तस्य गृहस्थेन ॥६२०।।
दत्तं. द्वितीयदिवसे च षष्टमेव कृतं. पारणके प्रांतनीरसाहारकरणात्तस्यैते रोगाः प्रादुर्भूताः-कंडः १ ज्वरः २, कासः ३, श्वासः ४, स्वरभंगः ५, अक्षिदुःखं ६, उदरव्यथा ७, एताः सप्त व्याधयः सप्तशतवर्षाणि यावदध्यासिताः. उग्रतपः कुर्वतस्तस्य आमॉंषधी १, खेलौषधी २, विवुडौषधी ३, जल्लोषधी ४, सर्वोषधी ५ प्रभृतयो लब्धयः संपन्नाः. तथाप्यसौ स्वशरीरप्रतीकारं न करोति. पुनः शक्रेणैकदैवं स प्रशंसितः, अहो! पश्यंतु देवाः सनत्कुमारस्य धीरत्वं व्याधिकदर्थितोऽप्ययं न स्वयं स्ववपुःप्रतीकारं कारयति. एतदिंद्रवचनमश्रद्दधानौ तावेव देवो वैद्यरूपेण तस्य मुनेः समीपे समायातौ, भणितवंतौ च भगवंस्तव वपुष्यावां प्रतीकारं कुर्वः. सनत्कुमारस्तदानीं तुष्णीक एव स्थितः. पुनस्ताभ्यां भणितं, परं तथैव मुनिर्मोनभाग्जातः, पुनः पुनस्तथैव तो भणतः, तदा मुनिना भणितं, भवंतौ किं शरीरव्याधिस्फेटको? किंवा कर्मव्याधिस्फेटको? ताभ्यां भणितमावां शरीरव्या
ॐॐॐॐॐॐॐ
॥६२०॥
For Private And Personal Use Only