________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥६१९॥
प्रथमवयसः समारभ्य षण्मासशेषायुःसमयं यावदवस्थितानि भवंति, यावजीवं न हीयंते. भवतां शरीरे त्वाश्चर्यं दृश्यते, यत्तव रूपलावण्यादिकं सांप्रतमेव दृष्टं नष्टं. राज्ञा भणितं कथमेवं भवद्भ्यां ज्ञातं? ताभ्यां शक्रप्रशंसादिकः सर्वोऽपि वृत्तांतः कथितः.
चक्रिणा तु केयूरादिविभूषितं बाहुयुगलं पश्यता, हारादिविभूषितमपि स्ववक्षःस्थलं विवर्ण-8 मुपलक्ष्य चिंतितमहो! अनित्यता संसारस्य! असारता शरीरस्य ! एतावन्मात्रेणापि कालेन म-14
च्छरीरस्य यौवनतेजांसि नष्टानि. अयुक्तोऽस्मिन भवे प्रतिबंधः, शरीरमोहोऽज्ञानं, रूपयौवनाभिमानो ४ मूर्खत्वं, भोगासेवनमुन्मादः, परिग्रहो ग्रह इव, तदेतत्सर्वं व्युत्सृज्य परलोकहितं संयमं गृह्णामीति, विचार्य चक्रिणा पुत्रः स्वराज्येऽभिषिक्तः, स्वयं संयमग्रहणायोद्यतो जातः. तदानीं ताभ्यां देवाभ्यां भणितं-अणुचरियं धीर तुमे । चरियं निययस्स पुवपरिसस्स ॥ भरहमहानरवइणो। तिहुअणविक्खायकित्तिस्स ॥१॥ इत्याद्युक्त्वा देवौ गतो. चक्यूपि तदानीमेव सर्वं परिग्रहं परित्यज्य विरता
IP६१९॥ चार्यसमीपे प्रवजितः. ततः स्त्रीरत्नप्रमुखाणि सर्वरत्नानि, शेषाश्च रमण्यः, सर्वेऽपि नरेंद्राः सर्वसै
For Private And Personal Use Only