SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६१८ ॥ www.kobatirth.org वर्धमान तपोऽखंडं कृतं, तत्प्रभावादस्य देहे प्रभेदृशी जातास्ति. देवैः पुनरिंद्रः पृष्टः, अन्योऽपि कचिदीदृशो दीप्तिमानस्ति न वा ? इंद्रेण भणितं यथा हस्तिनागपुरे कुरुवंशेऽस्ति सनत्कुमारनामा चक्री, तस्य रूपं सर्वदेवेभ्योऽप्यधिकमस्ति इदं शक्रवचोऽश्रद्दधानो विजयवैजयंतौ देवौ ब्राह्मणरूपावागतौ प्रतीहारेण मुक्तद्वारौ गृहांतः प्रविष्टौ राजसमीपं गतौ दृष्टश्च तैलाभ्यंगं कुर्वन् राजा, अतीवविस्मितौ देवो शक्रवर्णितरूपाधिकरूपं तं पश्यंतौ तौ राज्ञा पृष्टौ किमर्थं भवंतावत्रायातौ ? तौ भणतो देव! भवद्रूपं त्रिभुवने वर्ण्यते, तद्दर्शनार्थं कौतुकेनावामत्रायातौ ततोऽतिरूपगर्वितेन राज्ञा तावुक्तौ, भो भो विप्रो ! युवाभ्यां किं मद्रूपं दृष्टं ? स्तोककालं प्रतीक्षेथाः, यावदहमास्थानसभायामुपविशामि एवमस्त्विति प्रोच्य निर्गतौ द्विजौ. चक्यूपि शीघ्रं मज्जनं कृत्वा सर्वांगोपांगशृंगारं दधत् सभायां सिंहासने उपविष्टः, आकारितौ द्विजौ, ताभ्यां तदा चक्रिरूपं दृष्ट्वा विषण्णाभ्यां भणितमहो ! मनुष्याणां रूपलावण्य यौवनानि क्षणदृष्टनष्टानि तयोर्द्विजयोरेतद्वचः श्रुत्वा चक्रिणा भणितं, भो ! किमेवं भवतो विषण्णौ मम शरीरं निंदत्तः ? ताभ्यां भणितं महाराज ! देवानां रूपयौवनतेजांसि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६१८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy