SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥६१७॥ षेकं कुरु? इमं च हारं, वनमालां, छत्रं, मुकुट, चामरयुगलं, कुंडलयुगं, दूष्ययुगं, सिंहासन, पादपीठं च प्राभृतं कुरु? शक्रेण तव वृत्तांतः पृष्टोऽस्तीति ब्रूयाः. वैश्रमणोऽपि शक्रदत्तं गृहीत्वा गजपुरनगरे समागत्य तत्प्राभृतं चक्रिणः पुरो मुक्तवान्, शक्रवचनं चोक्तवानिति. पुनः शक्रेण तिलोत्त|मारंभे देवांगने तत्र तदभिषेककरणाय प्रेषिते. चक्रिणोऽनुज्ञा गृहीत्वा विकुर्वितयोजनप्रमाणमणि पीठोपरि रचितमणिमंडपांतः स्थापिते मणिसिंहासने कुमारं निवेश्य कनककलशाहृतक्षीरोदजल| धाराभिर्धवलगीतानि गायंतो देवीदेवा अभ्यषिंचन्. रंभातिलोत्तमादिदेव्यस्तदानी नृत्यं कुर्वति. महामहोत्सवेन कुमारमभिषिच्य वैश्रमणादयः स्वर्गलोकं जग्मुः. चक्यूपि भोगान् भुजन् कालं गमयति. अन्यदा सुधर्मासभायां सौधर्मेद्रः सिंहासनेऽनेकदेवदेवीसेवितः स्थितोऽस्ति. अत्रांतरे एक ईशानकल्पदेवः सौधर्मेद्रपार्श्वे आगतः. तस्य देहप्रभया सभास्थितदेवदेहप्रभाभरः सर्वतो नष्टः. आदित्योदये चंद्रग्रहादय इव निःप्रभाः सर्वे सुरा जाताः. तस्मिन् पुनः स्वस्थाने गते देवैः सौधर्मेंद्रः | पृष्टः, स्वामिन् ! केन कारणेनास्य देवस्येदृशी प्रभा जातास्ति? शक्रः प्राहानेन पूर्वभवे आचाम्ल ACCANARA-OF-CONC ॥६१७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy