________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सटीकं
उत्तरा
090099999990000000000
स्तत्परीषहमाह
॥मूलम् ॥-गामाणुगामं रीअंतं।अणगारं अकिंचणं ॥अरईअणुप्पएसे। तं तितिक्खे परीसहं ॥१४॥ अरई विठ्ठओ किच्चा। विरए आयरक्खिए॥ धम्मारामे निरारंभे । उवसंते मुणीवरे ॥१५॥ व्याख्याअरतिः संयमेऽधैर्य यदाऽनगारमनुप्रविशेदरतिपरीषहो मुनिं स्पृशेत्तदा साधुस्तं परीषहं तितिक्षण सहेत. किं कुर्वतमनगारं ? ग्रामानुग्रामं रीयंतं, ग्रामं ग्राममन्वित्यनुग्राम, एकं ग्रामं ब्रजतो मुनेरंतराले आगतं ग्राममनुग्राम, तत्र विचरंतं, कीदृशं? अकिंचनं, न विद्यते किंचनं यस्य सोऽकिंचनस्तं, परिग्रहरहितं, पुनरुक्तमर्थ दृढयति-मुनिररतिपरीषहे उत्पन्ने सत्यरतिं पृष्टतः कृत्वा दूरे कृत्वा धर्मारामः सन् संयममार्गे चरेद्विचरेत्. धमें आरमते रतिं करोतीति धर्मारामः, पुनः कीदृशः साधुः? विरत आश्रवादहितः, पुनः कीदृशः? निरारंभ आरंभरहितः, पुनः कीदृशः ? उपशांतो निःकषायः. ॥१५॥ अत्र पुरोहितपुत्रराजपुत्रयोः कथा यथा
अचलपुरे जितशत्रुनृपपुत्रोऽपराजितनाम रोहाचार्यपाधै दीक्षितः, अन्यदा विहरंस्तगरां
000000000000000
For Private And Personal Use Only