________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥५७॥
00000000000000000000
क्रमता धौतिकवस्त्रं मुक्त्वा सर्व त्याजितः, बहुशस्तथा प्रयोगकरणेपि धौतिकं नमुंचति. अन्यदेकः | साधुगृहीतानशनः स्वर्ग गत. तत आचार्यवृद्धस्य धौतिकत्याजनाय साधून्प्रत्येवमुक्तं य एनं वृद्धसाधुं व्यत्स्सृष्टं स्कंधेन वहति तस्य महत्पुण्यं. ततःस स्थविरो वक्ति पुत्रात्र किं बहु निर्जरा? आचार्या आहुर्बादं. ततःस वक्त्यहं वहामि, आचार्या वदंत्यत्रोपसर्गा जायंते, चेटकरूपाणि लग्यंते, यदि शक्यतेऽधिसोढुं तदा वरं, यदि क्षोभो भविष्यति तदाशुभमस्माकं भविष्यति. एवं स्थिरीकृत्य स तत्र नियुजितः, साधुसाध्वीसमुदायः पृष्टौ स्थितः, यावत्तेन साधुशबं स्कंधे समारोप्य वोढुमारब्धं ताव-11 त्तस्य धौतिकं गुरुशिक्षितडिंभकैराकर्षितं, स लज्जया यावत्तत्साधुशबं स्कंधान्मुंचति तावदन्यैरुक्तं मा | मुंच? मामुंच? एकेन चोलपट्टको दवरकेण कृत्वा कटौबद्धः,स तुलजया तत्साधुशबं द्वारभृमियावदु| दूह्य तत्र व्युत्सृज्य पश्चादागतो वक्ति हे पुत्राय महानुपसर्गों जातः, आहुराचार्या आनीयतां | धौतिक परिधाप्यतां ? ततः स वक्त्यथालं धोतिकेन, यद् दृष्टव्यं दृष्टमेव, अथ चोलपट्ट एवास्तु,
॥५७॥ पूर्व तेनाचेलपरीषहो न सोढः, पश्चात्सोढः ॥ ६॥ अथाचेलकस्य शीतादिभिररतिः स्यात्, अत
300000000000000000000
For Private And Personal Use Only