________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥५६॥
0000000000000000000004
वजखाम्याह वत्स! त्वया बिंदुमात्रं पठितं, समुद्रोपमं दशमं पूर्वमस्ति, ततोऽसौ थक्कपरिणामः प्राह नाहमतःपरं पूर्वपाठं कर्तुं शक्नोमि, गुरवस्तु दशमपूर्वार्धस्य स्वस्मिन्नेव व्युच्छेदं ज्ञात्वा मौनेन स्थिताः. असौ गुरूननुज्ञाप्य वसंसारिकवंदापनार्थं दशपुरनगरे प्राप्तः, गच्छतस्तस्य गुरुणा सूरिपदं दत्तं. अथार्यरक्षितसूरिस्तत्र स्वमातृभगिनीप्रभुखसर्वसांसारिकवों दीक्षां ग्राहितः, पिता तुप्रतिबोधितोऽपि साधुलिंगं न गृह्णाति, स्वज्ञातीयजनानां लजां च वहति. आचार्या दीक्षाग्रहणाय तस्य बहु कथयति.
ततः स कथयति पृथुलवस्त्रयुगल १ यज्ञोपवीत २ कमंडलु ३ छत्रिका ४ उपानद्भिः समं चेदीक्षां ददासि तदा लामि. ततो लाभं दृष्ट्वा तादृशमेव तं गुरुः प्रवाजितवान्, ग्राहितश्चरणकरणखाध्यायं. अन्यदा चैत्यवंदनार्थं गता आचार्याः, तत्र साधुशिक्षिता गृहस्थडिंभका वदंति एनं छात्रिणं मुक्त्वा सर्वान् साधून वंदामहे, ततः स वृद्धो वक्ति मम पुत्रा नप्त्रादय एते वंदिताः, अहं कस्मान्न वंदितः? किं मया दीक्षा न गृहीता? ते आहुः किं दीक्षितस्य छत्रमंडलादीनि स्युः? ततो गुरुष्वागतेषु स वृद्धो वक्ति पुत्र! मम डिंभका अपि हसंति. ततो न कार्य छत्रेण. एवं प्रयोगेण
3000000000000000000000
॥५६॥
For Private And Personal Use Only