________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
दा
॥ ६१२॥
रलक्ष्मीरनेकविद्याधरैः सहिता सनत्कुमारे संक्रांता. ततोऽशनिवेगं हत्वा चंद्रवेगादिविद्याधरपरिवृतः | सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः, दृष्टस्तत्र हर्षिताभ्यां सुनंदासंध्यावलीभ्यां, उक्तंच ताभ्यामार्यपुत्र! स्वागतं. अत्र च समस्तविद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः. सुखेनात्र विद्याधरराजसेवितः सनत्कुमारस्तिष्टति. अन्यदा चंद्रवेगेन विज्ञप्तः सनत्कुमारो यथा देव! मम पूर्वमर्चिालिमुनिनैवमादिष्टं, यथेदं तव कन्याशतं भानुवेगस्य चाष्टकन्या यः परि|णेष्यति सोऽवश्यं सनत्कुमारनामा चतुर्थश्चक्री भविष्यति. य इतो मासमध्ये मानसरोवरे समेष्यति, तत्र व्यसनापतितं सरसि स्नातमसिताक्षो यक्षः पूर्वभववैरी द्रक्ष्यति. स पूर्वभववैरी कथमिति सनत्कुमारेण पृष्टे चंद्रवेगो मुनिमुखश्रुतं तत्पूर्वभववृत्तांतं प्राह
अस्ति कांचनपुरं नाम नगरं, तत्र विक्रमयशोनामराजा, तस्य पंचशतान्यतःपुयों वर्तते. तत्र नागदत्तनामा सार्थवाहोऽस्ति. तस्य रूपलावण्यसौभाग्ययौवनगुणैः सुरसुंदरीभ्योऽधिका विष्णुश्रीनामभार्यास्ति. सान्यदा विक्रमयशोराज्ञा दृष्टा, मदनातुरेण तेन स्वांतःपुरे क्षिप्ता. ततो नागदत्त
T
ॐॐॐॐॐ
६१२॥
For Private And Personal Use Only