SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie उत्तरा सटीक ॥६११॥ सनत्कुमारसमीपे द्वौ विद्याधरनृपो समायातो. ताभ्यां प्रणामपूर्व कुमारस्यैवं भणितं, देव! अशनिवेगविद्याधरो विद्याबलज्ञातपुत्रमरणवृत्तांतस्त्वया समं योन्धुमायाति. अतश्चंद्रवेगभानुवेगाभ्यामावां हरिचंद्रचंद्रसेनाभिधानो निजपुत्रौ प्रेषितौ, रहसि संनाहश्च प्रेषितः. आवामस्मत्पितरौ च भवत्सेवार्थ संप्राप्ताः. तदनंतरं तत्र समागतौ चंद्रवेगभानुवेगी सनत्कुमारस्य साहाय्याय. संध्यावल्या प्रज्ञप्तिविद्या दत्ता. चंद्रवेगभानुवेगसहितः सनत्कुमारः संग्रामाभिमुखं चलितः. तावताऽशनिवेगः सैन्यवृत्तः समायातः. तेन समं प्रथमं चंद्रवेगभानुवेगौ योन्धुं प्रवृत्तौ. चिरकालं युद्धं कृत्वा तयोर्बलं भग्नं, ततः स्वयमुत्थितः सनत्कुमारः, तेनाशनिवेगेन समं घोरं युद्धमारब्धं. प्रथमं महोरगास्त्रं कुमारस्याभिमुखं मुक्तं, तच्च कुमारेण गरुडास्त्रेण विनिहतं. पुनस्तेनाग्नेयं शस्त्रं मुक्तं, तत्कुमारेण वरुणास्त्रेण निहतं. पुनस्तेन वायव्यास्त्र मुक्तं, कुमारेण शैलास्त्रेण प्रतिहतं. ततो गृहीतधनुर्बाणान्मुंचन् कुमारस्तं निर्जीवमिव चकार. पुनर्ग्रहीतकरवालः सनत्कुमारेण छिन्नदक्षिणकरः स कृतः. ततो द्वितीयकरेण बाहुयुद्धमिच्छतस्तस्याभिमुखमायातस्य कुमारेण चक्रेण शिररिछन्नं तदानीमशनिवेगविद्याध ॥६११॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy