________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सटीक
दालोचने भ्रामयित्वा कुमारः. अत्रावसरे कुमारपुण्यानुभावेन वनवासिना यक्षेण जलमानीतं, शि
शिरशीतलजलेन सर्वांगं सिक्तः, आश्वासितश्च. लब्धचेतनेन कुमारेण जलं पीतं, पृष्टं च कस्त्वं? ॥६०७॥
कुतो वानीतं जलमिदं? तेन भणितमहं यक्षोऽत्र निवासी, सलिलं चेदं मानसरोवरादानीतं. कुमारेणोक्तं यदि मां तदर्शयसि, तदा तत्र मानसरोवरे प्रक्षालयामि मद्वपुः, येन तत्तापोऽपनयति. तत् श्रुत्वा यक्षेण करतलसंपुटे गृहीत्वास नीतोमानसरोवरं. तत्रव्यसनापतितोऽयमिति कृत्वा क्रुद्धेन वैता| व्यवासिनाऽसितयक्षेण समं कुमारस्य युद्धं जातं. तथाहि-यक्षेण प्रथमं मोटिततरुः प्रचंडः पवनो मुक्तः, तेन नभःस्थलं बहुलधूल्यांधकारितं. ततो विमुक्ताहासा ज्वलनज्वालापिंगलकेशा पिशाचा मुक्ताः, कुमारस्तैर्मनाग् न भीतिं गतः. ततो नयनज्वालास्फुलिंगवर्षिभिर्नागपाशैः कुमारो यक्षेणं बद्धः, जीर्णरज्जुबंधनानीव तांत्रोटयतिस्म कुमारः, ततः करास्फालनपूर्व मुष्टिमुदस्य यक्षः स| मायातः, तावता मुष्टिप्रहारेण कुमारस्तं खंडीकृतवान्. पुनर्यक्षः स्वस्थो भूत्वा गुरुमत्सरेण कुमारं || SIMon घनप्रहारेण हतवान्. तत्प्रहारातः कुमारश्छिन्नमूलद्रुम इव भूमौ निपतितः. ततो यक्षेण दूरमुत्क्षि
For Private And Personal Use Only