SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagersuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तरा सटीक ॥६०६॥ अथानंदजलपूरितनयनेन सनत्कुमारेण भणितं, मित्र! कथमेकाक्येव त्वमस्यामटव्यामागतः? कथं चात्र स्थितोऽहं त्वया ज्ञातः? किं च करोति मदिरहे मम पिता माताच? कथितः सर्वो वृतांतो महेंद्रसिंहेन. ततो महेंद्रसिंहो वरविलासिनीभिर्मर्दितः स्नापितश्च. भोजनं द्वाभ्यां सममेव कृतं. भोजनावसाने च महेंद्रसिंहेन सनत्कुमारः पृष्टः, कुमार! तदा त्वं तुरंगमेणापहृतः क्व गतः? क स्थितश्च ? कुत एतादृशी ऋद्धिस्त्वया प्राप्ता? सनत्कुमारेण चिंतितं न युक्तं निजचरित्रकथनं मुखेन, | इति संज्ञिता स्वयं परिणीता खेचरेंद्रपुत्री विपुलमतीनाम्नी स्वप्रियसनत्कुमारवृत्तांतं स्वविद्याबलेन कथयितुं प्रवृत्ता-तदानी कुमारो भवदादिषु पश्यत्सु तुरंगमेणापहृतो महाटव्यां प्रविष्टः, द्वितीयदिनेऽपि तथैव धावतोऽश्वस्य मध्याह्नसमयो जातः. क्षुधापिपासाकुलितेन श्रांतेनाश्वेन निष्कासिता जिह्वा, कुमारस्तत उत्तीर्णः, सोऽश्वस्तदानीमेव मृतः. कुमारस्ततः पादाभ्यामेव चलितः. तृषाक्रांतश्च सर्वत्र जलं गवेषयन्नपि न प्राप. ततो दीर्घाध्वश्रमेण सुकुमारत्वेन चात्यंतमाकुलीभूतो दूरदेशस्थितं सप्तच्छदं वृक्षं पश्यन् तदभिमुखं धावन् कियत्कालानंतरं तत्र प्राप्तः. छायायामुपविष्टः पतितश्च * ६०६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy