________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- चलितः. अस्मिन्नवसरे प्रचंडवायुर्वातुं लग्नः, तेन तुरंगपदमागों भग्नः. महेंद्रसिंहो राजाज्ञां मार्गयि॥६०५॥
त्वोन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महाटवी. तत्र भ्रमतस्तस्य वर्षमेकमतिक्रांतं. एकस्मिन् दिवसे गतः स्तोकं भूमिभागं यावत्, तावदेकं महत्सरो दृष्टवान्, तत्र कमलपरिमलमाघातवान्, श्रुतवांश्च मधुरगीतवेणुरवं. यावन्महेन्द्रसिंहोऽग्रे गच्छति, तावतरुणीगणमध्यसंस्थितं सनत्कुमारं दृष्टवान्. विस्मितमना महेन्द्रसिंहश्चिंतयति, किं मयैष विभ्रमो दृश्यते? किं वा सत्य एवायं
सनत्कुमारः? यावदेवं चिंतयन्महेन्द्रसिंहस्तिष्टति तावत्पठितमिदं बंदिना-जय आससेण नहयल-म ४ायंक कुरुभुवणलग्गणे खंभ ॥ जय तिहुअणनाह सणं-कुमार जय लद्धमाहप्प ॥१॥ ततो महेंद्र-| सिंहः सनत्कुमारोऽयमिति निश्चितवान्.
अथ प्रकामं प्रमुदितमना महेंद्रसिंहः सनत्कुमारेण दूरादागच्छन् दृष्टः. सनत्कुमारोऽप्युत्थायाभिमुखमाययो. महेंद्रसिंहः सनत्कुमारपादयोः पतितः. सनत्कुमारेण समुत्थापितो गाढमालिंगितश्च. द्वावपि प्रमुदितमनस्को विद्याधरदत्तासने उपविष्टौ. विद्याधरलोकश्च तयोः पावें उपविष्टः.
4%55555
CANCIAGRAAAAACHA
॥६०५॥
For Private And Personal Use Only