SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६०१ ॥ www.kobatirth.org करोति. भगीरथदंडेन गंगाप्रवाहमाकर्षन् भंजश्च बहून् स्थलशैलप्रवाहान् प्राप्तः पूर्वसमुद्रं, तत्रावतारिता गंगा, तत्र नागानां बलिपूजा विहिता, यत्र गंगा सागरे प्रवाहिता, तत्र गंगासागरतीर्थं जातं. गंगा जन्हुनाऽनीतेति जाह्नवी, भगीरथिना नीतेति भागीरथी. भगीरथिस्तदा मिलितैर्नागैः पूजितो गतोऽयोध्यां पूजितश्चक्रिणा तुष्टेन स्थापितः स्वराज्ये. सगरचक्रवर्तिना श्रीअजितनाथसमीपे दीक्षा गृहीता, क्रमेण च कर्मक्षयं कृत्वा सगरः सिद्धः अन्यदा भगीरथिना राज्ञा कश्विदतिशयज्ञानी पृष्टः, भगवन् ! किं कारणं ? यज्जन्हुप्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः ? ज्ञानिना भणितं, महाराज! एकदा महान् संघश्चैत्यवंदनार्थं सम्मेतपर्वते प्रस्थितः, अरण्यमुलंयांतिमग्रामं प्राप्तः, तन्निवासिना सर्वेणानार्यजनेनात्यंतमुपद्रुतो दुर्वचनेन वस्त्रान्नधनहरणादिना च. तत्प्रत्ययं तद्ग्रामवासिलोकैरशुभं कर्म बद्धं तदानीमेकेन प्रकृतिभद्रकेण कुंभकारेणोक्तं, मोपद्रवतेमं तीर्थयात्रागतं जनं, इतरस्यापि निरपराधस्य परिक्लेशनं महापापस्य हेतुर्भवति, किंपुनरे. तस्य धार्मिकजनस्य ? यतो यद्येतस्य संघस्य स्वागतप्रतिपत्तिं कर्तुं न शक्तास्तदोपद्रवं तु रक्षति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं H ६०१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy