SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ६०० ॥ www.kobatirth.org. aati | कम्मबंधो उ केवलो ॥ तो पंडिया न सोयंति । जाणंता भवरूवयं ॥ १ ॥ एवमादिवचनविन्यासैर्विप्रेण स्वस्थीकृतो राजा, भणिताश्च तेनैव सामंतमंत्रिणः, वदंतु यथावृत्तं पष्टिसहस्त्रपुत्रमरणव्यतिकरं. तैरुक्तः सकलोऽपि तद्व्यतिकरः, प्रधानपुरुषैः सर्वैरपि राजा धीरतां नीतः, उचितकृत्यं कृतवान्. अत्रांतरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिणो एवं कथयंति, यथा देव ! यो मदीयसुतैरष्टापदरक्षणार्थं गंगाप्रवाह आनीतः, स आसन्नग्रामनगराण्युपद्रवति, तं भवान्निवारयतु देवः अन्यस्य कस्यापि तन्निवारणशक्तिर्नास्तीति चक्रिणा स्वपौत्रो भगीरथिर्भणितः, वत्स! नागराजमनुज्ञाप्य दंडरत्नेन गंगाप्रवाहं नय समुद्रं ? ततो भगीरथिरष्टापदसमीपं गतः, अष्टमभतेन नागराज आराधितः समागतो भर्णात, किं ते संपादयामि ? प्रणामपूर्वं भगीरथिना भणितं तव प्रसादेनामुं गंगाप्रवाहमुदधिं नयामि, अष्टापदासन्नलोकानां महानुपद्रवोऽस्तीति. नागराजेन भणितं, विगतभयस्त्वं कुरु स्वसमीहितं ? निवारयिष्याम्यहं भरतनिवासिनो नागान् इति भणित्वा नागराजः स्वस्थानं गतः, भगीरथिनापि कृता नायानां बलिकुसुमादिभिः पूजा, ततः प्रभृति लोको नागबलिं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ६०० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy