________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा-
सटोक
॥५९९॥
भवतः शोककारणं जातं. संभ्रांतेन चक्रिणा पृष्टं भो विप्र! कीदृशं मम शोककारणं जातं? विप्रेण भणितं देव! तव षष्टिसहस्राः पुत्राः कालं गताः. इदं श्रुत्वा चक्री वज्रप्रहाराहत इव नष्टचेतनः सिंहासनान्निपतितो मूर्छितः, सेवकैरुपचरितश्च. मूर्छावसाने च शोकातुरमना मुत्कलकंठेन रुरोद, एवं विलापांश्च चकार, हा पुत्राः! हा हृदयदयिताः! हा बंधुवल्लभाः! हा शुभस्वभावाः! हा विनीताः! हा सकलगुणनिधयः! कथं मामनाथं मुक्त्वा यूयं गताः? युष्मद्विरहार्तस्य मम दर्शनं ददत? हा निर्दय पाप विधे! एकपदेनैव सांस्तान् बालकान् संहरतस्तव किं पूर्ण जातं? हा निष्ठुरहृद-31 य! असह्यसुतमरणसंतप्तं त्वं किं न शतखंडं भवसि? एवं विलपमानश्चक्री तेन विप्रेण भणितःमहाराज! त्वं मम संप्रत्येवमुपदिष्टवान्, स्वयं च कथं शोकं गच्छसीति? उक्तं च-परवसणंमि सुहेणं । संसारासारत्तं कहइ लोओ॥ णियबंधुजणविणासे । सवस्सवि चलइ धीरत्तं ॥१॥ एकपुत्रस्यापि मरणं दुस्सहं, किं पुनः षष्टिसहस्रपुत्राणां? तथापि सत्पुरुषा व्यसनं सहते, पृथिव्येव व- ॥५९९॥ जनिपातं सहते, नापर इति. अतोऽवलंबख सुधीरत्वं? अलमत्र विलपितेन. यत उक्तं-सोयंताणं
AAAAAAAA.
For Private And Personal Use Only