________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ५९१ ॥
www.kobatirth.org
पेषु ऋषभपुत्रो भरतो मुख्यस्तेनायं मार्गः समाश्रित इत्यर्थः ॥ ३४ ॥ अथात्र भरतचक्रिणः कथा - अयोध्यायां नगर्यां श्रीऋषभदेवपुत्रः पूर्वभवकृतमुनिजनवैयावृत्त्यार्जितचक्रिभोगः प्रथमचक्री भरतनामास्ति तस्य नवनिधानानां चतुर्दशरलानां द्वात्रिंशत्सहस्रनरपतीनां द्विसप्ततिसहस्रपुरवराणां पण्णवतिकोटिग्रामाणां चतुरशीतिशत सहस्रहयगजरथानां षट्खंडभरतस्यैश्वर्यमनुभवतः, स्वसंपत्त्यनुसारेण साधर्मिक वात्सल्यं कुर्वतः स्वयं कारिताष्टापदशिरः संस्थितचतुर्मुख योजनायामजिनायतनमध्यस्थापित निजनिजवपुःप्रमाणोपेतश्रीऋषभादिचतुर्विंशतिजिनप्रतिमावंदनार्चनं समाचरतः श्रीभरतचक्रिणः पंच पूर्वलक्षाण्यतिक्रांतानि अन्यदा महाविभूत्योद्वर्तितदेहः सर्वालंकारविभूषितः स भरतचकी आदर्शभवने गतः तत्र स्वदेहं प्रेक्षमाणस्यांगुलीयकं पतितं तच्च तेन न ज्ञातं. आदर्शभित्तौ स्वदेहं पश्यता तेन पतितमुद्रिका स्वकरांगुल्यशोभमाना दृष्टा ततो द्वितीयांगुलीतोऽपि मुद्विकाsपनीता, साप्यशोभमाना दृष्टा ततः क्रमात्सर्वांगाभरणान्युत्तारितानि तदा स्वशरीरमतीवाशोभमानं निरीक्ष्य संवेगमापन्नश्चक्री एवं चिंतितुं प्रवृत्तः. अहो! आगंतुकद्रव्यैरेवेदं शरीरं शोभते, न
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५९१ ॥