________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
t ent
शुद्धेन निर्मलेन चित्तेनोपलक्षितः. तमिति सूत्रत्वात्तद् ज्ञानं बुद्धः श्रीमहावीरः, अथवा बुद्धः श्रुतज्ञानवान् प्रादुरकरोत्. पुनस्तच्च ज्ञानं श्रीजिनशासने जानीहि ? नापरस्मिन् कुत्रापि दर्शनेऽस्ति. ततोऽहं तत्र स्थितः, तत्प्रसादाद बुद्धोऽस्मीति भावः ॥ ३२॥
॥ मूलम् ॥-किरियं च रोए धीरो । अकिरियं परिवज्जए॥ दिट्ठीए दिट्टीसंपन्ने । धम्मं चरसु दुच्चरं ॥ ३३ ॥ व्याख्या-धीरोऽक्षोभ्यः क्रियां जीवस्य विद्यमानतां जीवसत्तां रोचयति, स्वयं स्वस्मै अभिलषयति, तथा परस्मै अप्यभिलषयतीत्यर्थः. अथवा क्रियां सम्यगनुष्टानरूपां प्रतिक्रमणप्रतिलेखनारूपां मोक्षमार्गसाधनभूतां ज्ञानसहितां क्रियां रोचयति. पुनरक्रियां जीवस्य नास्तित्वं जीवे जीवस्याऽविद्यमानतां परिवर्जयेत्. अथवा अक्रियां मिथ्यात्विभिः कल्पितां कष्टक्रियामज्ञानक्रियां परित्यजेत. पुनर्धारः पुमान् दृष्ट्या सम्यग्दर्शनात्मिकया दृष्टिसंपन्नो भवति. दृष्टिः सम्यग्ज्ञानात्मिका बुद्धिस्तया संपन्नः सहितो दृष्टिसंपन्नः, सम्यग्दर्शनेन सम्यग्ज्ञानसहित इत्यर्थः. तस्मात्त्वमपि सम्यरज्ञानदर्शनसहितः सन् सुदुश्चरं कर्तुमशक्यं धर्म चारित्रधर्म चरांगीकुरु ? ॥ ३३ ॥
Ex
4%
५८९॥
For Private And Personal Use Only