________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
सटीक
उत्तरा॥५८८॥
|स्त्वं संयमाध्वनि यायाः, अहमपीति विद्यां ज्ञानं ज्ञात्वांगीकृत्य संयममागें यामीति स्वयापि तथैय संचरितव्यमिति हाद. ॥ ३०॥
॥ मूलम् ॥–पडिकमामि पसिणाणं । परमंतेहिं वा पुणो ॥ अहो उडिओ अहोरायं । इइ विजा तवं चरे ॥ ३१ ॥ व्याख्या-पुनः स्वाचारं वक्ति हे मुने! अहं 'पसिणाणं' इति प्राकृतवाद्विभक्तिव्यत्ययः, प्रश्नेभ्यः शुभाशुभसूचकांगुष्टादिपृच्छाभ्यः प्रतिक्रमामि पराङ्मुखो भवामि. वाथवा पुनः परमंत्रेभ्यः प्रतिक्रमामि प्रतिनिवर्ते, परस्य गृहस्थस्य मंत्राणि कार्यालोचनानि तेभ्यः परमंत्रेभ्यः, एभ्यः सर्वेभ्यः पराङ्मुखो भवामि. अहो इति आश्चर्ये, अहोरात्रमुत्थितो धर्मप्रत्युद्यतः कश्चिदेव महात्मैवंविधः स्यात्, इति विदन्निति जानस्तपश्चरेः, न तु प्रश्नमंत्रादिके चरेः ॥ ३१॥
॥मूलम् ॥-जं च पुच्छसि काले। सम्मं सुद्धेण चेयसा ॥ ताई पाउकरे बुद्धे । तं नाणं जिणसासणे ॥ ३२ ॥ व्याख्या-अथ संयतमुनिना पृष्टं, त्वमायुः कथं जानासि? तदा पुनः क्षत्रियमुनिराह-हे संयत! त्वं मां काले इति कालविषयमायुर्विषयं ज्ञानं पृच्छसि. कीदृशस्त्वं? सम्यक्
*
५८८॥
For Private And Personal Use Only