________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥। ५८७ ॥
www.kobatirth.org
वर्षशतोपमा, द्विविधापि दिव्या भवस्थितिस्तत्रास्ति परं मे महापालिर्दिव्या भवस्थितिरासीदित्यानायः, दशसागरायुरहमासमित्यर्थः ॥ २८ ॥
॥ मूलम् ॥ - से चुओ बंभलोगाओ । माणुस्सं भवमागओ ॥ अप्पणो य परेसिं च । आउं जाणे जहा तहा ॥ २९ ॥ व्याख्या -' से ' इति सोऽहमित्यध्याहारः, सोऽहं ब्रह्मलोकात्पंचमदेवलोकाच्च्युतः सन् मानुष्यं भवं नरसंबंधिजन्म समागतः, आत्मनश्च पुनः परेषां च यथा यथायुर्जीवितं वर्तते तथा जानामि, यस्य मानवस्य येन प्रकारेणायुरस्ति, तस्य तेन प्रकारेण सर्वं जानामि, परं विपरीतं न जानामि, सत्यं जानामि ॥ २९ ॥
॥ मूलम् ॥ - नाणारुइं च छंदं च । परिवज्जेज संजए ॥ अणट्टा जेय सबठ्ठा । इइ विजामणुसंचरे ॥ ३० ॥ व्याख्या - हे मुने! संयतसाधो ! नानारुचिं क्रियावाद्यादिमतविषयमभिलाषं परिवर्जयेः, च पुन इछंदः स्वमतिकल्पिताभिप्रायं नानाविधं परिवर्जयेः, च पुनर्येऽनर्था अनर्थहेतवो ये सर्वार्था अशेषहिंसादयो गम्यत्वात्तान् परिवर्जयेरिति संबंधः इत्येवंरूपां विद्यां सम्यग्ज्ञानरूपामनुलक्ष्यीकृत्य संचरे
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५८७ ॥