________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
परलोके विद्यमाने सम्यक्प्रकारेण ' अप्पयं 'आत्मानं स्वस्य परस्य च जानामि. आत्मा परलोकादागतस्ततोऽहं परलोकमात्मानं च सम्यग् जानामि. ते कुतीर्थिनोऽपि सम्यग् ज्ञाताः, तेन कुतीर्थिनां संगं न करोमि. ॥ २७ ॥ कथं जानामीत्याह
॥मूलम्-अहमासि महापाणे । जुइमं वरिससओवमो ॥ जा सा पाली महापाली । दिवा वरिससओवमा ॥ २८ ॥ व्याख्या-हे मुने! अहं महाप्राणे विमाने पंचमे ब्रह्मलोके देव आसं. कथंभूतोऽहं? द्युतिमान्, द्युतिर्विद्यते यस्य स द्युतिमांस्तेजस्वी. पुनः कथंभूतोऽहं? वर्षशतोपमो वर्षशतजीविनः पुरुषस्योपमा यस्यासौ वर्षशतोपमः. कोऽर्थः? यथेह वर्षशतजीवीदानी परिपूर्णायुरुच्यते, तथाहं तत्र विमाने परिपूर्णायुरभूवं. तत्र या पालिमहापालिश्च, सा दिव्या स्थितिमेंऽभूदिति शेषः. पालिशब्दस्य कोऽर्थः? पालिरिव पालिर्जीवितजलधारणात्, पालिशब्देन भवस्थितिः कथ्यते, सा चेह पल्योपमप्रमाणा, महापालिः सागरोपमप्रमाणा स्थितिः कथ्यते. दिवि भवा दिव्या, देवसंबंधिनी स्थितिरित्यर्थः. कथंभूता पालिमहापालिश्च? वर्षशतोपमा, वर्षशतैः केशोद्धारहेतुभिरुपमीयते या सा
CACOCA.
है॥५८६॥
For Private And Personal Use Only