________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥५८३॥
सर्वत्र सत्तायाःसत्वात्सर्वत्र जीवः स्यात्, अजीवेऽपि जीवबुद्धिः स्यात् १,पुनर्नास्तित्वे आत्मनो नास्तित्वेऽस्य प्रमाणबाधितत्वाच्च जीवाजीवयोरुभयोरपि सादृश्यं नास्तित्वं स्यात्. २. सर्वत्र विनये क्रियमाणे निर्गुणे विनयस्याऽशुभफलत्वात्. विनयोऽपि स्थाने एव कृतः फलदः, तस्मादेकांतं विनयोऽपि न श्रेष्टः. ३. अज्ञानं हि मुक्तिसाधने कारणं नास्ति, मुक्तेर्ज्ञानस्यैव कारणत्वात्. हेयोपादेयपदार्थयोरपि ज्ञाने
नैव साध्यत्वात्. ज्ञानं विना हितमपि न जानाति, तस्मादज्ञानमपि न श्रेष्टं. ४. तस्माक्रियावादिनः ४|१, अक्रियावादिनः २, विनयवादिनः ३, अज्ञानवादिनश्च १, सर्वेऽप्येते एकांतवादिनो मिथ्याविनः
कुतीर्थिनः कुत्सितभाषिणो ज्ञेयाः. एतेषां पाखंडिनां सर्वे भेदाः (३६३) त्रिषष्टयुत्तरत्रिशतप्रमिता भवंति. तत्र क्रियावादिनां १८०, अक्रियावादिनां ८४, विनयवादिनां ३२, अज्ञानवादिनां ६७. कुसितभाषितं हि न चैतत् स्वाभिप्रायेण, किंतु भगवद्वचसैतेषां कुत्सितभाषितं. ॥ २३ ॥ तदाह| ॥ मूलम् ॥-इइ पाउकरे बुद्धे । नायए परिनिव्वुए ॥ विजाचरणसंपन्ने । सच्चे सच्चपरकमे ॥ २४ ॥ व्याख्या-इत्येते क्रियावादिनः कुत्सितं प्रभाषते, इत्येवंरूपं वचनं बुद्धो ज्ञाततत्वो ज्ञा
M॥५८३॥
For Private And Personal Use Only