________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
नामाचार्यजीवघातान्निवर्तितः, तन्निवृत्तौ मुक्तिफलमुक्तं च. ततस्तदर्थ माहनोऽस्मि. यथा तदुपदेशानुसारतो गुरून् प्रतिचरामि, तदुपदेशसेवनाच्च विनीतोऽस्मीति भावः ॥ २२ ॥ अथ तद्गुणबहमानतोऽपृष्टोऽपि क्षत्रियमुनिराह
॥ मूलम् ॥-किरियं १ अकिरियं २ विणियं ३ । अन्नाणं ४ च महामुणी ॥ एएहिं चउहिं ठाणेहिं । मेयन्ने किं पभासई ॥ २३ ॥ व्याख्या-हे संयतमहामुने! एतैश्चतुर्भिः स्थानैमिथ्यात्वाधारभृतैर्हेतुभिः कृत्वा मेयज्ञाः किं प्रभाषते ? मेयं जीवादिवस्तु जानंतीति मेयज्ञाः पदार्थज्ञाः कुतीर्थ्या वादिनः कुत्सितं प्रजल्पंते, एतावता एतैश्चतुर्भिहेतुभिर्मिथ्यात्विनः सर्वे त्रिषष्टयुत्तरत्रिशतभेदाः (३६३) पाखंडिनो यथावस्थिततत्वमजानाना यथातथा प्रलापिनः संति ते त्वया ज्ञातव्याः, तानि कानि चत्वारि स्थानानि? क्रिया जीवादिसत्तारूपा १, पश्चादक्रिया जीवादिपदार्थानामक्रिया नास्तित्वरूपा २, विनयं सर्वेभ्यो नमस्कारकारणं ३, अज्ञानं सर्वेषां पदार्थानामज्ञानं भव्यं ४, एते| ह्येकांतवादित्वेन मिथ्यात्विनो ज्ञेयाः. कुत्सितभाषणं ह्येतेषां विचारस्याऽसहत्वात्. यतो हि सर्वथा
P५८२॥
For Private And Personal Use Only