________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
ॐ
उत्तरा
सटोक
॥५८१॥
+
कारेण तव मनः प्रसन्नं विकाररहितं वर्तते. अंतःकालुष्ये ह्येवं प्रसन्नताऽसंभवात्. ॥ २०॥ पुनः किं परिभाषते? इत्याह
॥ मूलम् ॥-किं नामे किं गुत्ते । कस्सट्टा एव माहणे ॥ कहं पडियरसि बुद्धे । कहं विणीएत्ति वुच्चसि ॥ २१ ॥ व्याख्या-हे साधो! तव किं नाम? तव किं गोत्रं? पुनः 'कस्सट्टाए' इति कस्मै अर्थाय वा त्वं माहनः प्रबजितोऽसि? हे साधो! त्वं बुद्धान् कथं प्रतिचरसि? त्वमाचार्यान् केन प्रकारेण सेवसे? पुनहें साधो! त्वं कथं विनीत इत्युच्यसे? अहं त्वां पृच्छामि. ॥ २१ ॥
॥ मूलम् ॥-संजओ नाम नामेणं । तहा गुत्तेण गोयमो ॥ गद्दभाली ममायरिया। विजाचरणपारगा ॥ २२ ॥ व्याख्या-अथ क्षत्रियसाधोः प्रश्नानंतरं संयतसाधुरुवाच. हे साधो! अहं संयत इति नाम्नाऽभिधानेन नाम प्रसिद्धोऽस्मि. तथा पुनरहं गोत्रेण गौतमोऽस्मि. ममाचार्या गुरवो गर्दभालिनामानः. कीदृशा मम गुरवः? विद्याचरणपारगाः, विद्या च चरणं च विद्याचरणे, तयोः पारगा विद्याचरणपारगाः. विद्या श्रुतज्ञानं, चरणं चारित्रं, तयोः पारगामिनः. अयमाशयः-अहं तैर्गर्दभालि
ACROCO-OP4
॥५८१॥
For Private And Personal Use Only