________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५७८ ॥
www.kobatirth.org
निष्कासयंति एवं बांधवा बांधवान् मृतान्निष्कासयंति तस्मादेवं ज्ञात्वा हे राजंस्तपश्चरेत्तपः कु|र्वत्यर्थः ॥ १५ ॥
॥ मूलम् ॥ - ओ तेजिए दवे । दारे य परिरक्खिए | कीलंतन्ने नरा रायं । तुट्टमलंकिया ॥ १६ ॥ व्याख्या - ततो निःसरणानंतरं तेनैव पित्राद्यर्जितधनेन च पुनर्दारेषु स्त्रीषु हे राजन् ! अन्ये नराः क्रीडंति, स्वामिनि मृते सति तस्य धने तस्य स्त्रीषु चापरे मनुष्या हृष्टतुष्टं यथा स्यात्तथा हर्षिताः संतुष्टाः संतोऽलंकृता अलंकारयुक्ताः संतश्च क्रीडां कुर्वेति कथंभूते धने ? परिरक्षिते, समस्तप्रकारेण चौरानिप्रमुखेभ्यो रक्षिते. यावत्स जीवति तावद्धनस्य स्त्रीणां च रक्षां कुरुते, मृते सत्यन्ये भुंजंति, धनस्त्रीप्रमुखाः पदार्थास्तत्रैव तिष्टंति, न च सार्थे समायांति कोऽर्थः ? वराको जनो दुःखेन द्रव्यमुत्पाद्य यत्नेन रक्षति, दारानपि जीवितव्यमिव रक्षति, अलंकारैर्नवे रंजयति, तस्मिन् मृते सति तेनैव वित्तेन तैरेव दारैश्च, अन्ये हृष्टाः शरीरे पुलकादिमंतः, तुष्टा आंतरप्रीतिभाजोऽलंकृता विभूषिताः संतो रमंते, यत ईदृशी भवस्थितिरस्ति ततो हे राजंस्तपश्चरेत्तपः कु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५७८ ॥