________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-C
उत्तरा
सटोक
॥५७९॥
र्यादिति संबंधः. ॥ १६ ॥
॥ मूलम् ॥ तेणावि जं कयं कम्मं । सुहं वा जइ वा दुहं ॥ कम्मुणा तेण संजुत्तो । गच्छई उ परं भवं ॥ १७ ॥ व्याख्या-तेनापि मरणोन्मुखेन जीवेन यच्छभं कर्म, अथवाऽशुभं कर्म कृतं भवेत्, सुखं दुःखं वोपार्जितं स्यात्, तेन शुभाशुभलक्षणेन कर्मणा संयुक्तः सन् स जीवः परभवं ग. च्छति, एतावता जीवस्य सार्थेऽन्यत्किमपि नायाति, स्वोपार्जितं शुभाशुभं कर्म साथै समागच्छति. । ॥ मूलम् ॥-सोऊण तस्स सो धम्मं । अणगारस्स अंतिए ॥ महया संवेयनिवेयं । समावन्नो नराहिवो ॥१८ ॥ व्याख्या–स संयतो राजा 'महया' इति महत्संवेगो निवेदं समापन्नः, संवेगश्च निवेदश्च संवेगनिर्वेद, संवेगो मोक्षाभिलाषः, निर्वेदः संसारादुद्विग्नता, स राजा उभयं प्राप्त इत्यर्थः. किं कृत्वा ? तस्यानगारस्य साधोरंतिके समीपे धर्म श्रुत्वा. ॥ १८ ॥
॥ मूलम् ॥-संजओ चइउं रजं । निक्खंतो जिणसासणे ॥ गहभालिस्स भगवओ। अणगारस्स अंतिए ॥ १९ ॥ व्याख्या-संयतो राजा गर्दभालिनाम्नोऽनगारस्यांतिके समीपे जिनशासने
-NCRACCHAR-ACCOM
॥५७९॥
For Private And Personal Use Only