________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा-
सटीक
-a-ACO
॥५७७॥
ॐॐॐॐॐॐ
पातचंचलं वर्तते, विद्युतः संपातश्चलनं तद्वच्चंचलं वर्तते. हे राजन्! यत्र यस्मिन्नायुषि रूपे च त्वं मुह्यसे मोहं प्राप्नोषि, प्रेत्यार्थ परलोकार्थ च नावबुध्यसे न जानासि. ॥ १३ ॥
॥ मूलम् ॥–दाराणि य सुया चेव । मित्ता य तह बांधवा ॥ जीवंतमणुजीवंति । मयं नाणुवयंति य ॥१४॥व्याख्या-हे राजन् ! दाराः स्त्रियः, च पुनः सुता आत्मजाः, पुनर्मित्राणि, तथा बांधवा ज्ञातयो भ्रातृप्रमुखाः, एते सर्वेऽपि जीवंतं मनुष्यमनुजीवंति, जीवतो धनवतः पुरुषस्य पृष्टे उदरपूर्ति कुर्वति, तस्य द्रव्यं भुंजंतीत्यर्थः. परं तं पुरुषं मृतं नानुवति, मृतस्य तस्य पुरुषस्य पृष्टे केऽपि न ब्रजंतीत्यर्थः. तदाऽन्यद् गृहादिकं किं पुनः सह यास्यतीति? अतः कृतघ्नेष्वादरो न विधेयः, तस्मात्परिकरे को रागः कर्तव्यः? ॥ १४ ॥
॥मूलम् ॥-नीहरंति भयं पुत्ता। पियरं परमदुक्खिया ॥ पियरोवि तहा पुत्तो । बंधू राया तवं चरे ॥ १५॥ व्याख्या-हे राजन् ! पुत्रा मृतं पितरं नोहरंति गृहान्निष्कासयंति. कीदृशाः पु-15 त्राः? परमदुःखिता अत्यंतं शोकार्दिताः. पितरोऽपि जनका अपि तथा तेन प्रकारेण पुत्रान् मृता
C OCCUR
५७७n
For Private And Personal Use Only