________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
॥५४॥
DGOO6 @GOGOGGO00029066
प्रणतः पितातीवहर्षवान् जातः, माता तु नैव हर्ष मनाग्दर्शयति. आर्यरक्षितः प्राह हे मातस्त्वं
सटीक मदध्ययनेन किं न हृष्टा?सा प्राह किमनेन जीवघातादिनिमित्तेन बहुशास्त्राध्ययनेन ! किं त्वया दृष्टिवादोऽधीतः? येन मम हर्षः स्यात्. ततस्तेन पृष्टं दृष्टिवादः क्वास्ति? मात्रोक्तं ईक्षवाटके स्थितानां तोसलिपुत्राचार्याणां समीपेऽस्ति. ततस्तेन भणितं हे मातः! कल्ये तत्र यास्यामिदृष्टिवादभणनार्थ, रात्रौ सुप्तः सन्नेवं चिंतयति दृष्टिनां वादो दृष्टिवाद उति नामाप्यस्य शास्त्रस्य सुंदरमिति. प्रभतो | तद्भणनार्थं तत्र चलितः, मागें प्रथमत एव दशपुरनगरप्रत्यासन्नग्रामवासी पितृमित्रं सार्धनवेक्षुयष्टि-18 | हस्तो ब्राह्मणो मिलितः, कथितं च तेनाहं तव मिलनार्थमागतोऽस्मि, ततःस्वागतं परस्परं पृष्टं, पश्चा| दार्यरक्षितेनोक्तमहं क्वचित्कार्याय गच्छन्नस्मि, इदं सार्धनवेक्षुयष्टिप्राभृतं मातुर्हस्तेऽर्पणीयं, कथनोयं | चाहंपूर्वमार्यरक्षिताय मिलितः. अथ तेन तथैव कृतं.ततोमातातुष्टा सती चिंतयति मम पुत्रेण सुंदरं मंगलं दृष्टं, सार्धनवपूर्वाण्यध्येष्यति पुत्रः, आर्यरक्षितोऽपि शुभं शाकुनं चिंतयन् गत ईक्षुवाटके.
|॥५४॥ तत्रैकस्मिन् पाश्वे स्थित्वा ढढ्डरश्राद्धवंदनविधि दृष्ट्वोपाश्रयमध्ये प्रविष्टः, वंदिता स्तोसलिपुत्राचार्याः,
000000000000000000000
For Private And Personal Use Only