________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6
उत्तरा
सटीकं
॥५३॥
4 that gang
सहितो भविष्यामीति प्रमोदभागपि न स्यात्, एतावता वस्त्रस्याप्राप्तौ वस्त्रस्य प्राप्तौ वा विषादो वा | हषों वा साधुना न विधेयः, प्राप्त्यप्राप्त्योः सदृशे न भाव्यमित्यर्थः ॥ १२॥ पुनः साधुरेवं चिंतयेत्एकदा जिनकल्पावस्थायां साधुरचेलकः स्यात्, इयमपि साधोरेवावस्था, स्थविरकल्पेऽपि दुर्लभवस्त्रत्वेन पूर्ववस्त्रस्य जीर्णत्वान्नाशे जाते सत्यपरवस्त्रप्राप्त्यभावेन निमित्तं विनापि निर्वस्त्रः स्यात्, तदा | मनसि साधुनेति चिंतनीयं.इदानीमहं जिनकल्पावस्थां भजामि, जिनकल्पीमुनिरचेलक एव तिष्टति. पुनरेकदा स्थविरकल्पावस्थाचिंतनेनोभयं धर्म ज्ञात्वा ज्ञानी साधुनों परिदेवेत, नो विलापं कुर्वीत, कीदृशं धर्म? हितं हितकारकं. ॥ १३ ॥ अत्र दृष्टांतो यथा
दशपुरे नगरे सोमदेवो द्विजोऽस्ति, तस्य भार्या रुद्रसोमा नाम्नी वर्तते, तयोः पुत्रावार्यरक्षितफल्गुरक्षितौ स्तः, आर्यरक्षितेन पितुर्विद्या पूर्णा गृहीता, पश्चात्पाटलिपुत्रे नगरेऽधिकविद्यापठनाय | कस्यचिदुपाध्यायपाद्यं गतः, तत्र तेन सांगोपांगाश्चत्वारो वेदाः पठिताश्चतुर्दश विद्यास्थानानि गृही| तानि. ततो दशपुरं नगरं प्रातः, नृपादिसकललोकैः प्रवेशोत्सवं कृत्वा पूजितश्च स्वगृहे गत्वा पितरौ
-000000000000000000
॥५३॥
For Private And Personal Use Only