________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५७४ ॥
www.kobatirth.org.
गृहे क्षिप्रं शीघ्रमागत्य हतं मृगं दृष्ट्वा तत्रानगारं साधुं पश्यति ॥ ३ ॥
॥ मूलम् ॥ - अह राया तत्थ संभंतो । अणगारे मणाहओ ॥ मए न मंदपुण्णेणं । रसगिद्वेण घिणा ॥ ७ ॥ व्याख्या - अथानंतरं तत्र तस्मिन् स्थाने स संयतो राजा संभ्रांतो मुनिदर्शनाद्भीत इत्यर्थः, मनस्येवं चिंतयतिस्म, मया मंदपुण्येन न्यूनभाग्येनाऽनगारः साधुरनाहतोऽल्पेनाहतोऽभूत्, स्तोकेन टलित इत्यर्थः मया पापेनायं साधुर्मारित एवाभूदित्यर्थः कीदृशेन मया ? रसगृद्धेन मांसावादलोलुपेन. पुनः कीदृशेन मया ? घिनुणा घातुकेन जीवहननशीलेन. ॥ ७ ॥
॥ मूलम् ॥ आसं विसजइत्ता णं । अणगारस्स सो निवो ॥ विणएणं वंदए पाए । भगवं इत्थ मे खमे ॥ ८ ॥ व्याख्या - स नृपोऽनगारस्य विनयेन पादौ वंदते. किं कृत्वा ? अश्वं विसृज्य, णमिति वाक्यालंकारे, घोटकं त्यक्त्वा पुनः स नृप इति वक्ति, हे भगवन् ! इत्थ इत्यत्र मृगवधे मेऽपराधं क्षमस्व ? अपराधमिति पदमध्याहार्यं ॥ ८ ॥
॥ मूलम् ॥ - अह मोणेण सो भयवं । अणगारे झाणमस्सिए | रायाणं न पडिमंतेइ । तओ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५७४ ॥