________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kalassagarsuri Gyarmandie
सटोक
उत्तरा
माज्ञाविचयादिकं ध्यायति, धर्मध्यानं चिंतयति. कथंभूतोऽनगारः? तपोधनस्तप एव धनं यस्य स तपोधनः, पुनः कीदृशः?. स्वाध्यायध्यानसंयुक्तः॥४॥
॥मूलम् ॥-अप्फोडवमंडवंमि । झायइ खवियासवे ॥ तस्सागए मिए पासं । बहेइ से नराहिवे ॥५॥ व्याख्या- अप्फोडवमंडवंमि' इति वृक्षाद्याकीर्णोऽफोडवः, स चासौ मंडपश्चाफोडवमंडपस्तस्मिन्नफोडवमंडपे, नागवल्लीद्राक्षादिभिर्वेष्टिते स्थाने इत्यर्थः. तस्मिन् वृक्षनिकुंजे लतावेष्टिते सोऽनगारोऽप्फोडवमंडपे स्थितो ध्यानं ध्यायति, धर्मध्यानं चिंतयति. कीदृशः सोऽनगारः? क्षपिताश्रवः, क्षपिता निरुद्धा आश्रवा येन स क्षपिताश्रवो निरुद्धपापागमनद्वारः. अत्र पूर्वगाथायामपि ध्यानं ध्यायतीत्युक्तं, पुनरपि यदुक्तं तदत्यंतादरख्यापनार्थ. स नराधिपः संयतो भूपस्तस्य धमध्यानपरायणस्य साधोः पार्श्वे आगतं मृगं हतिस्म.॥५॥
॥ मूलम् ॥-अह आसगओ राया। खिप्पमागम्म सो तहिं ॥हए मिए उ पासित्ता । अणमगारं तत्थ पासई ॥६॥ व्याख्या-अथानंतरमश्वगतोऽश्वारूढः संयतो राजा तत्र तस्मिन् लता
POCALA-NCCAAAAAe
* ॥५७३॥
For Private And Personal Use Only