________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥५६३॥
॥ मूलम् ॥-संमद्दमाणो पाणाणि । बियाणि हरियाणि य ॥ असंजए संजयमन्नमाणो । | पावसमणित्ति वुच्चई ॥६॥ व्याख्या-यः प्राणान् द्वित्रिचतुरिंद्रियान् संमईमानोऽतिशयेन पीडयन्, च पुनर्बीजानि शालिगोधूमादिसचित्तधान्यानि संमईयति, च पुनहरितानि दुर्वादीनि फलपुष्पादीनि संमईयति, पुनर्योऽसंयतः सन्नात्मानं संयतं मन्यमानः, स पापश्रमण उच्यते. ॥६॥
॥ मूलम् ॥-संथारं फलगं पीढं । निसजं पायकंबलं ॥ अप्पमजियमारुहइ । पावसमणित्ति बुच्चइ ॥७॥ व्याख्या-पुनर्यः संस्तारं कंबलादिकं, फलकं पट्टिकादिकं, पीठं सिंहासनादिकं, निषीद्यते उपविश्यते इति निषद्या, तां निषिद्यां स्वाध्यायातपनादिक्रियायोग्यां भूमि, पादकंबलं पादपुंछनमित्यायुपकरणमप्रमृज्य रजोहरणादिना प्रमार्जनमकृत्वा जीवयतनामकृत्वारोहते स पापश्रमण उच्यते. ॥७॥
॥ मूलम् ॥-दवद्दवस्स चरई। पमत्ते य अभिक्खणं ॥ उल्लंघणे य चंडे य । पावसमणित्ति वुच्चइ ॥ ८॥ व्याख्या-पुनर्य आहाराद्यर्थं यदा व्रजति, तदा दबदब इति घातैः पृथिवीं कुट्टयन्
A-CONSCANCISCOACHIC
॥५६३॥
For Private And Personal Use Only