SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५६२ ॥ www.kobatirth.org वृद्धान्, उपाध्यायान् पाठकान् खिंसई इति निंदते, किं जानंत्येतेऽज्ञाः ? अहं यादृशमाचारं सूत्राणामर्थं जानामि, एतादृशमेते आचार्या उपाध्याया न जानंतीत्युक्त्वा निंदति, तान् कानू ? यैराचायैरुपाध्यायैश्च श्रुतं शास्त्रं, विनयं च प्राहितः, शिक्षितश्च तानप्रति निंदति, इति न जानाति यदेतैरेवाहं शिक्षितः, एतादृशः कृतघ्नः पापभ्रमणः श्रमणाभासः श्रमणलक्षणैर्हीनः श्रमणत्वं मन्यमानः पापश्रमण उच्यते कीदृशः सः ? बालोऽज्ञानी निर्विवेकीत्यर्थः ॥ ४॥ ॥ मूलम् ॥-आयरिय उवज्झायाणं । सम्मं नो पडितप्पड़ || अपडिपूयए थद्धे । पावसमणित्ति बुच्च ॥ ५ ॥ व्याख्या - ज्ञानविषयं पापभ्रमणत्वमुक्त्वा दर्शनविषयमाह-य आचार्याणां पुनरुपा - ध्यायानां सम्यक्प्रकारेण वैपरीत्यराहित्येन न परितृप्यति प्रीतिं न विदधाति, पुनर्योऽर्हदादीनां यथायोग्य पूजायाः पराङ्मुखो भवति, अप्रतिपूजको भवति, अथवोपकारकर्तुरप्युपकारं विस्मार्य विस्मार्य तस्य प्रत्युपकारं किमपि न करोति, सोऽप्रतिपूजक उच्यते पुनः स्तब्धोऽहंकारी, मनस्येवं जानाति यदहं महापुरुषोऽस्मि, एतादृशो मुनिर्यः स्यात् स पापश्रमण उच्यते ॥ ५ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५६२ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy