________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥५६१॥
यद्वर्तमान जीवादिवस्तु वर्तते तदप्यहं जानामि, इति हेतोहे भगवन् ! श्रुतेन सिद्धांताध्ययनेन किं
सटोकं करिष्यामि ? अत्र हे भगवन्नित्यामंत्रणं आक्षेपे वर्तते. कोऽर्थः? ये भगवंतोऽधीयंते, तेषामपि नातीद्रियज्ञानं, तत्किं गलतालुशोषेणेत्यध्यवसितोऽयं भवति. स पापश्रमण उच्यते, इतीहापि संबध्यते सिंहावलोकनन्यायेन. ॥ २ ॥
॥ मूलम् ॥–जे केइ पवईए । निदासीले पगामसो ॥ भुच्चा पिच्चा सुबई । पावसमणित्ति बुच्चइ ॥३॥ व्याख्या–स पापश्रमण इत्युच्यते, पापश्चासौ श्रमणश्च पापश्रमणः पापिष्टसाधुरित्यर्थः. स इति कः? यः कश्चित्प्रवजितो गृहीतदीक्षः सन् पश्चात्प्रकामशोऽत्यंतं भुक्त्वा दधिकरंबादिकं भुक्त्वा, पीत्वा दुग्धतक्रादिकमाचम्य निद्राशीलो भृत्वा सुखं प्रतिक्रमणादिक्रियानुष्टानमक| त्वैव स्वपिति, स सम्यक् साधुन भवेदित्यर्थः ॥३॥
॥ मूलम् ॥-आयरियउवज्झाएहिं । सुयं विणयं च गाहए ॥ ते चेव खिंसई बाले । पावसमणित्ति वुच्चइ ॥ ४ ॥ व्याख्या–प्त पापश्रमण इत्युच्यते, स इति कः? यस्तानेवाचार्यान् गण-13||
॥५६१
For Private And Personal Use Only