________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५५७ ॥
www.kobatirth.org
सितं, पुनः स्त्रीभिः सह भुक्तासनानि, पुनस्तथा प्रणीतरसभक्तपानसेवनं, पुनरतिमात्रपानभोजनं. पुनर्गात्रभूषणार्थं शोभाकरणं, पुनर्दुर्जयाः कामभोगाः, अधीरपुरुषैस्त्यक्तुमशक्याः. एतत्सर्व ब्रह्मचर्यधारिणा परिहरणीयं ॥ ११ ॥ १२ ॥ १३ ॥
॥ मूलम् ॥ - दुजये कामभोगे य। निच्चसो परिवज्जए ॥ संकाठाणाणि सव्वाणि । वज्जिज्जा पणिहाणत्रं ॥ १४ ॥ व्याख्या - प्रणिधानवानेकाग्रचित्तः सर्वाणि दशापि शंकास्थानानि यानि पूर्वोक्तानि तानि वर्जयेत् पुनर्दुर्जयान् कामभोगान् परिवर्जयेत्. पुनः कामभोगग्रहणमत्यंतनिवारणोपदेशार्थं. ॥ मूलम् ॥ धम्मारामे चरे भिक्खू । धिइमं धम्मसारही ॥ धम्मारामे रए दंते । बंभचेरसमाहिए ॥ १५ ॥ व्याख्या — ब्रह्मचर्य समाधिमान् भिक्षुः साधुर्धर्मारामे चरेत्. धर्म आराम इव दुःखसंतापतप्तानां सौख्यहेतुत्वात्, धर्मारामस्तस्मिन् धर्मारामे तिष्टेत्, शीलं धर्मः स एवारामस्तत्र विचरेदित्यर्थः कीदृशो भिक्षुः ? धृतिमान् धैर्ययुक्तः पुनः कीदृशः ? धर्मसारथिर्धर्ममार्गप्रवर्तयिता. पुनः कीदृशः ? धर्मारामरतः, धर्मे आ समंताद्रमंते इति धर्मारामाः साधवस्तेषु रतः, साधुभिः सह
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं"
॥ ५५७ ॥